|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.195. अध्यायः 195
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन त्रेधाविभज्य सेनानां यापनम् ॥ 1 ॥ सर्वेषां शिबिरप्रवेशः ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-195-0x(3946)(38566)
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः।
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥ 5-195-1(38567)
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः । 5-195-2(38568)
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः ॥ 5-195-3(38569)
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः ।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥ 5-195-4(38570)
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ 5-195-5(38571)
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ने नृपाः ॥ 5-195-6(38572)
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ 5-195-7(38573)
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् ।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ 5-195-8(38574)
कृतवार्मा सहानीकस्त्रिगर्तश्च महारथः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ 5-195-9(38575)
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः ।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥ 5-195-10(38576)
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः॥ 5-195-11(38577)
दुर्योधनस्तु शिबिरं कारयामास भारत ।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥ 5-195-12(38578)
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ 5-195-13(38579)
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ 5-195-14(38580)
पञ्चयोजनमुत्सृज्य माण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः ॥ 5-195-15(38581)
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥ 5-195-16(38582)
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।
व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ 5-195-17(38583)
सनागाश्वमनुण्याणां ये च शिल्पोपजीविनः ।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ 5-195-18(38584)
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः ।
सर्वांस्तन्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥ ॥ 5-195-19(38585)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वमि पञ्चनवत्यधिकशततमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|